Ramayana times – Sun sets near nakshatra ‘PUSHYA’ during Hemanta rutu

Aranyakand

वसतः तस्य तु सुखम् राघवस्य महात्मनः |
शरद् व्यपाये हेमंतऋतुर् इष्टः प्रवर्तत || ४-१६-१

स कदाचित् प्रभातायाम् शर्वर्याम् रघुनंदनः |
प्रययाव अभिषेकार्थम् रम्यम् गोदावरीम् नदीम् || ४-१६-२

प्रह्वः कलश हसतः तम् सीतया सह वीर्यवान् |
पृष्ठतो अनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् || ४-१६-३

अयम् स कालः संप्राप्तः प्रियो यः ते प्रियंवद |
अलंकृत इव आभाति येन संवत्सरः शुभः || ४-१६-४

नीहार परुषो लोकः पृथिवी सस्य मालिनी |
जलानि अनुपभोग्यानि सुभगो हव्य वाहनः || ४-१६-५

नव आग्रयण पूजाभिर् अभ्यर्च्य पितृ देवताः |
कृत आग्रयणकाः काले सन्तो विगत कल्मषाः || ४-१६-६

प्राज्यकामा जनपदाः संपन्नतर गो रसाः |
विचरन्ति महीपाला यात्र अर्थम् विजिगीषवः || ४-१६-७

सेवमाने दृढम् सूर्ये दिशम् अन्तक सेविताम् |
विहीन तिलका इव स्त्री न उत्तरा दिक् प्रकाशते || ४-१६-८

प्रकृत्या हिम कोश आढ्यो दूर सूर्याः च सांप्रतम् |
यथार्थ नामा सुव्यक्तम् हिमवान् हिमवान् गिरिः || ४-१६-९

अत्यन्त सुख संचारा मध्याह्ने स्पर्शतः सुखाः |
दिवसाः सुभग आदित्याअः छ्हाया सलिल दुर्भगाः || ४-१६-१०

मृदु सूर्याः सनीहाराः पटु शीताः समारुताः |
शून्य अरण्या हिम ध्वस्ता दिवसा भान्ति सांप्रतम् || ४-१६-११

निवृत्त आकाश शयनाः पुष्यनीता हिम अरुणाः |
शीता वृद्धतर आयामः त्रि यामा यान्ति सांप्रतम् || ४-१६-१२

aranya-kand

रवि संक्रान्त सौभाग्यः तुषार अरुण मण्डलः |
निःश्वास अन्ध इव आदर्शाः चंद्रमा न प्रकाशते || ४-१६-१३

ज्योत्स्ना तुषार मलिना पौर्णमास्याम् न राजते |
सीता इव च आतप श्यामा लक्ष्यते न तु शोभते || ४-१६-१४

प्रकृत्या शीतल स्पर्शो हिम विद्धाः च सांप्रतम् |
प्रवाति पश्चिमो वायुः काले द्वि गुण शीतलः || ४-१६-१५

बाष्प च्छ्हन्नानि अरण्यानि यव गोधूमवंति च |
शोभन्ते अभ्युदिते सूर्ये नदद्भिः क्रौन्च सारसैः || ४-१६-१६

खर्जूर पुष्प आकृतिभिः शिरोभिः पूर्ण तण्डुलैः |
शोभन्ते किंचिद् आलंबाः शालयः कनक प्रभाः || ४-१६-१७

मयूखैः उपसर्पद्भिः हिम नीहार संवृतैः |
दूरम् अभ्युदितः सूर्यः शशांक इव लक्ष्यते || ४-१६-१८

अग्राह्य वीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः |
संरक्तः किंचिद् आपाण्डुः आतपः शोभते क्षितौ || ४-१६-१९

अवश्याय निपातेन किंचित् प्रक्लिन्न शाद्वला |
वनानाम् शोभते भूमिर् निविष्ट तरुण आतपा || ४-१६-२०

(Shlok 1-20 describes a complete cycle of 24 hours on a typical day of Hemant rutu, of Ramayana times, near Panchavati)

स्पृशन् तु सुविपुलम् शीतम् उदकम् द्विरदः सुखम् |
अत्यन्त तृषितो वन्यः प्रतिसंहरते करम् || ४-१६-२१

एते हि समुपासीना विहगा जलचारिणः |
न अवगाहन्ति सलिलम् अप्रगल्भा इव आवहम् || ४-१६-२२

अवश्याय तमो नद्धा नीहार तमसा आवृताः |
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वन राजयः || ४-१६-२३

बाष्प संचन्न सलिला रुत विज्ञेय सारसाः |
हिमाअर्द्र वालुकैः तीरैः सरितो भान्ति सांप्रतम् || ४-१६-२४

तुषार पतनात् चैव मृदुत्वात् भास्करस्य च |
शैत्यात् अग अग्रस्थम् अपि प्रायेण रसवत् जलम् || ४-१६-२५

जरा जर्जरितैः पत्रैः शीर्ण केसर कर्णिकैः |
नाल शेषा हिम ध्वस्ता न भान्ति कमलाकराः || ४-१६-२६

अस्मिन् तु पुरुषव्याघ्र काले दुःख समन्वितः |
तपश्चरति धर्मात्मा त्वत् भक्त्या भरतः पुरे || ४-१६-२७

त्यक्त्वा राज्यम् च मानम् च भोगांश्च विविधान् बहून् |
तपस्वी नियताहारः शेते शीते महीतले || ४-१६-२८

सोऽपि वेलाम् इमाम् नूनम् अभिषेक अर्थम् उद्यतः |
वृतः प्रकृतिभिर् नित्यम् प्रयाति सरयूम् नदीम् || ४-१६-२९

अत्यन्त सुख संवृद्धः सुकुमारो हिमार्दितः |
कथम् तु अपर रात्रेषु सरयूम् अवगाहते || ४-१६-३०

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s